Showing posts with label भूदेवता एव गोरूपं धृत्वा स्वस्याः. Show all posts
Showing posts with label भूदेवता एव गोरूपं धृत्वा स्वस्याः. Show all posts

Monday, 6 February 2017

भूदेवता एव गोरूपं धृत्वा स्वस्याः

भूदेवता एव गोरूपं धृत्वा स्वस्याः भारं निवर्तयितुं प्रार्थितवती खलु परीक्षिन्महाराजम्।यथा भूः पूज्या तथा गौरपि। गव एव धनमिति सत्यम्।धनस्य स्थाने पूर्वं भारते गोविनिमयः आसीत्।गां न रक्षामश्चेत् उपद्रवास्सम्भवन्त्येव। गोः अवमानेन दिलीपो नाम राजा कामधेनुना शप्त असीत्।सः वसिष्ठमहर्षेः उपदेशेन गोपूजां गोसेवां प्रतिदिनं वने उषित्वा पत्न्या सह कृतवान्।दिलीपः न सामान्यः। सः चक्रवर्ती। तथापि गोरवमानेन अतिकष्टमनुभूतवान्। गवि सर्वाः देवतास्सन्ति। गोधनमेव अपहृतं दुर्योधनेन। तत्फलितमप्यनुभूतवान्। अस्माकं देशोऽपि गोशापेनैव कष्टान् अनुभवति।सर्वदा सर्वधा गौः रक्षणीया।गोरक्ष्णं यज्ञाय आवश्यकम्।यज्ञेन पर्जन्यः तृप्यति।पर्जन्येन वृष्टिर्भवति।वृष्ट्या सस्यं वर्धते। सस्येन जीवाः जीवन्ति सम्यक्।देशोऽयं क्षोभरहितो भवति।एवं परम्परया गौः अस्मान् रक्षति।गोरक्षणं अस्माकं प्रथमो धर्मः।यदि अयं धर्मः रक्षितो भवति वयं रक्षिता भवामः।अत एवोक्तं विद्वद्भिः,”धर्मो रक्षति रक्षित” इति।